|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.9. अध्यायः 009
Mahabharata - Udyoga Parva - Chapter Topics
शल्येन इन्द्रस्यापि दुःखानुभवे कथिते युधिष्ठिरपृच्छया तेन विस्तरेण तत्कथनोपक्रमः ॥ 1 ॥ इन्द्रजिघांसया त्वष्ट्रा सृष्टस्य त्रिशिरसो विश्वरूपस्य तपोभङ्गाय इन्द्रेण अप्सरसां प्रेषणम् ॥ 2 ॥ अप्सरोभिस्तस्याधर्षणीयत्वे ज्ञाते इन्द्रेण वज्रपातनात्तस्य हननम् ॥ 3 ॥ हतेपि तस्मिन् जीवतीव दृश्यमाने भयादिन्द्रप्रार्थनया यदृच्छया आगतेन तक्ष्णा तच्छिरश्छेदनम् ॥ 4 ॥ विश्वरूपहननकुपितेन त्वष्ट्रा पुनरिन्द्रवधाय वृत्रस्योत्पादनम् ॥ 5 ॥ वृत्रेणेन्द्रे पराजिते सेन्द्राणां देवानां विष्णुं प्रति गमनम् ॥ 6 ॥
Mahabharata - Udyoga Parva - Chapter Text
युधिष्ठिर उवाच। 5-9-0x(3358)(31925)
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥ 5-9-1(31926)
शल्य उवाच। 5-9-2x(3359)
शृणु राजन्पुरावृत्तमितिहासं पुरातनम्।
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥ 5-9-2(31927)
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥ 5-9-3(31928)
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः ।
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥ 5-9-4(31929)
वेदानेकेन सोऽधीते सुरामेकेन चापिबत्।
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥ 5-9-5(31930)
स तपस्वी मुदुर्दान्तो धर्मे तपसि चोद्यतः ।
तपस्तस्य महत्तीव्रं सुदुश्चरमरिन्दम ॥ 5-9-6(31931)
तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः ।
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥ 5-9-7(31932)
कथं सज्जेच्च भोगेषु न च तप्येन्महत्तपः ।
विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत् ॥ 5-9-8(31933)
इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ ।
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥ 5-9-9(31934)
यथा स सज्जेत्रिशिराः कामभोगेषु वै भृशम् ।
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ 5-9-10(31935)
शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः ।
हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः ॥ 5-9-11(31936)
प्रलोभयत भद्रं वः शमयध्वं भयं मम।
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः ॥ 5-9-12(31937)
भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः । 5-9-13(31938)
अप्सरस ऊचुः।
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने।
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥ 5-9-13x(3360)
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः।
तं प्रलोयितुं देव गच्छामः सहिता वयम् ॥ 5-9-14(31939)
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् । 5-9-15(31940)
शल्य उवाच।
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्।
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ॥ 5-9-15x(3361)
नृत्तं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम्।
नाभ्यगच्छत्प्रहर्षं ताः स पश्यन्सुमहातपाः ॥ 5-9-16(31941)
इन्द्रियाणि वशे कृत्वा पूर्णसागरसन्निभः।
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ॥ 5-9-17(31942)
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन्।
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ॥ 5-9-18(31943)
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ।
संपूज्याप्सरसः शक्रो विसृज्य च महामतिः ॥ 5-9-19(31944)
चिन्तयामास तस्यैव वधोपायं युधिष्ठिर।
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् ॥ 5-9-20(31945)
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत्।
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं नभविष्यति ॥ 5-9-21(31946)
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा।
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ॥ 5-9-22(31947)
अथ वैश्वानरनिभं घोररूपं भयावहम्।
मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति ॥ 5-9-23(31948)
स पपात हतस्तेन वज्रेण दृढमाहतः।
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥ 5-9-24(31949)
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम्।
न शर्म लेभे देवेन्द्रो दीपिततस्तस्य तेजसा ॥ 5-9-25(31950)
हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते।
घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै ॥ 5-9-26(31951)
` शिरांसि तस्याजायन्त त्रीण्येव शकुनास्त्रयः।
तित्तिरिः कलविङ्कश्च तथैव च कपिञ्जलः ।
विश्वरूपशिरांस्येव जायन्ते तानि भारत ' ॥ 5-9-27(31952)
ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन्।
अथाजगाम परशुं स्कन्धेनादाय वर्धकिः ॥ 5-9-28(31953)
तदरण्यं महाराज यत्रास्तेऽसौ निपातितः ।
स भीतस्तत्र तक्षाणं घटमानं शचीपतिः ॥ 5-9-29(31954)
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥ 5-9-30(31955)
तक्षोवाच। 5-9-31x(3362)
महास्कन्धो भृशं ह्येष परशुर्नभविष्यति।
कर्तुं चाहं न शक्ष्यामि कर्म राद्भिर्विगर्हितम् ॥ 5-9-31(31956)
इन्द्र उवाच। 5-9-32x(3363)
मा भैस्त्वं शीघ्रमेतद्वै कुरुष्व वचनं मम।
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥ 5-9-32(31957)
तक्षोवाच। 5-9-33x(3364)
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥ 5-9-33(31958)
इन्द्र उवाच। 5-9-34x(3365)
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते।
कुरुष्वैतद्यथोक्तं मे तक्षन्माऽत्र विचारय ॥ 5-9-34(31959)
` मया हि निहतः शेते त्रिशिरास्त्वं च विद्वि वै। 5-9-35(31960)
वैशम्पायन उवाच।
स प्रह्वः प्राञ्जलिर्भूत्वा इदं वचनमब्रवीत्' ॥ 5-9-35x(3366)
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा।
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥ 5-9-36(31961)
शक्र उवाच। 5-9-37x(3367)
पश्चाद्धर्मं चरिष्यामि पावनार्थ सुदुश्चरम्।
शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥ 5-9-37(31962)
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै।
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥ 5-9-38(31963)
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः ।
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥ 5-9-39(31964)
शल्य उवाच। 5-9-40x(3368)
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात्तदा।
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा॥ 5-9-40(31965)
निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथ।
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥ 5-9-41(31966)
येन वेदानधीते स्म पिबते सोममेव च।
तस्माद्वक्रार्द्विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः ॥ 5-9-42(31967)
येन सर्वा दिशो राजन्पिबन्निव नीरीक्षते।
तस्माद्वक्राद्विनिश्चेरुस्तित्तिरास्तस्य पाण्डव ॥ 5-9-43(31968)
यत्सुरापं तु तस्यासीद्वक्रं त्रिशिरसस्तदा।
कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ ॥ 5-9-44(31969)
ततस्तेषु निकृत्तेषु विज्वरो मघवानथ।
`तक्ष्णे तथा वरं दत्त्वा प्रहृष्टस्त्रिदशेश्वरः ॥' 5-9-45(31970)
जगाम त्रिदिवं देवस्तक्षाऽपि स्वगृहान्ययौ।
मेने कृतार्थमात्मानं हत्वा शत्रुं सुरारिहा ॥ 5-9-46(31971)
` तक्षापि स्वगृहं गत्वा नैव शंसति कस्यचित्।
अथैनं नाभिजानन्ति वर्षमेकं तथागतम् ॥ 5-9-47(31972)
अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो।
तमाक्रोशन्त मघवान्नः प्रभुर्ब्रह्महा इति। 5-9-48(31973)
तत इन्द्रो व्रतं घोरमाचरत्पाकशासनः।
तपसा च सुसंयुक्तः सह देवैर्मरुद्गणैः ॥ 5-9-49(31974)
समुद्रेषु पृथिव्यां च वनस्पतिषु स्त्रीषु च।
विभज्य ब्रह्महत्यां च तान्वरैरप्ययोजयत् ॥ 5-9-50(31975)
वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च।
वनस्पतिभ्यः स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम्॥ 5-9-51(31976)
ततस्तु शुद्धो भगवान्देवैर्लोकैश्च पूजितः ।
इन्द्रस्थानमुपातिष्ठत्पूज्यमानो महर्षिभिः' ॥ 5-9-52(31977)
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम्।
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ 5-9-53(31978)
त्वष्टोवाच। 5-9-54x(3369)
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्।
विनाऽपराधेन यतः पुत्रं हिंसितवान्मम ॥ 5-9-54(31979)
तस्माच्छक्रविनाशाय वृत्रमुत्पादयाम्यहम्।
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महम् ।
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥ 5-9-55(31980)
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः ।
अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ॥ 5-9-56(31981)
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम।
सोऽवर्घत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ॥ 5-9-57(31982)
किं करोमीति चोवाच कालसूर्य इवोदितः।
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥ 5-9-58(31983)
ततो युद्धं समभवद्वृत्रवासवयोर्महत्।
संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ॥ 5-9-59(31984)
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् ।
अपावृत्याक्षिपद्वक्रे शक्रं कोपसमन्वितः ॥ 5-9-60(31985)
ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदिवेश्वराः।
असृजंस्ते महासत्वा जृम्भिकां वृत्रनाशिनीम् ॥ 5-9-61(31986)
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्।
स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलनाशनः ॥ 5-9-62(31987)
ततः प्रभृति लोकस्य जृम्भिका प्राणिसंश्रिता।
जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम् ॥ 5-9-63(31988)
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ।
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥ 5-9-64(31989)
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः।
त्वष्टुस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत। 5-9-65(31990)
निवृत्ते च तदा देवा विषादमगमन्परम् ।
समेत्य सह शक्रेण त्वष्टुस्तेजोविमोहिताः ॥ 5-9-66(31991)
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत।
किं कार्यमिति वै राजन्विचिन्त्य भयमोहिताः ॥ 5-9-67(31992)
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम्।
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥ ॥ 5-9-68(31993)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि नवमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-9-11 हावाः शृङ्गारचेष्टाः । भावाः चित्तविकारा हर्षादयस्तर्युक्ताः ॥ 5-9-16 सौषवं सौन्दर्यम्। प्रहर्ष लब्धभोयोऽस्मीति तोषम् ॥ 5-9-28 वर्धकिः तक्षा ॥ 5-9-31 नभविष्यति नङ्क्ष्यति ॥ 5-9-56 ठपस्पृश्य आचम्य ॥ 5-9-60 अपावृत्य मुखं संप्रसार्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|